हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 88 – युद्धकाण्ड अष्टाशीतितमः सर्गः (८८)
॥ सौमित्रिरावणियुद्धम् ॥
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्छितः ।
अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥ १ ॥
उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते ।
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ २ ॥
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् ।
धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥ ३ ॥
तं ददर्श महेष्वासो रथे सुसमलङ्कृतः ।
अलङ्कृतममित्रघ्नं राघवस्यानुजं बली ॥ ४ ॥
हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ।
उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ॥ ५ ॥
तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् ।
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ॥ ६ ॥
मुक्तं वर्षमिवाकाशे वारयिष्यथ सम्युगे ।
अद्य वो मामका बाणा महाकार्मुकनिःसृताः ॥ ७ ॥
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ।
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यष्टितोमरैः ॥ ८ ॥
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ।
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ॥ ९ ॥
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ।
रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः ॥ १० ॥
शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरःसरौ ।
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम् ॥ ११ ॥
आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ।
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ॥ १२ ॥
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ।
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ॥ १३ ॥
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् ॥ १४ ॥
वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ।
अन्तर्धानगतेनाजौ यस्त्वयाऽऽचरितस्तदा ॥ १५ ॥
तस्कराचरितो मार्गो नैष वीरनिषेवितः ।
यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस ॥ १६ ॥
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ।
एवमुक्तो धनुर्भीमं परामृश्य महाबलः ॥ १७ ॥
ससर्ज निशितान्बाणानिन्द्रजित्समितिञ्जयः ।
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ॥ १८ ॥
सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ।
शरैरतिमहावेगैर्वेगवान्रावणात्मजः ॥ १९ ॥
सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ।
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ॥ २० ॥
शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः ।
इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च ॥ २१ ॥
विनद्य सुमहानादमिदं वचनमब्रवीत् ।
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः ॥ २२ ॥
आदास्यन्तेऽद्य सौमित्रे जिवितं जीवितान्तगाः ।
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण ॥ २३ ॥
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ।
[* अधिकपाठः –
अद्य यास्यति सौमित्रे कर्णगोचरतां तव ।
तर्जनं यमदूतानां सर्वभूतभयावहम् ।
*]
क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः ॥ २४ ॥
भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ।
विशस्तकवचं भूमौ व्यपविद्धशरासनम् ॥ २५ ॥
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ।
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ॥ २६ ॥
हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ।
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मासि राक्षस ॥ २७ ॥
अथ कस्माद्वदस्येतत्सम्पादय सुकर्मणा ।
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ॥ २८ ॥
कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ।
अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवक्षिपन् ॥ २९ ॥
अविकत्थन्वधिष्यामि त्वां पश्य पुरुषाधम ।
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान् ॥ ३० ॥
निजघान महावेगाँल्लक्ष्मणो राक्षसोरसि ।
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः ॥ ३१ ॥
नैरृतोरस्यभासन्त सवितू रश्मयो यथा ।
स शरैराहतस्तेन सरोषो रावणात्मजः ॥ ३२ ॥
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ।
स बभूव तदा भीमो नरराक्षससिंहयोः ॥ ३३ ॥
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ।
उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ॥ ३४ ॥
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ।
उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ ३५ ॥
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ।
बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ ॥ ३६ ॥
युयुधाते महात्मानौ तदा केसरिणाविव ।
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ ।
नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ३७ ॥
सुसम्प्रहृष्टौ नरराक्षसोत्तमौ
जयैषिणौ मार्गणचापधारिणौ ।
परस्परं तौ प्रववर्षतुर्भृशं
शरौघवर्षेण बलाहकाविव ॥ ३८ ॥
अभिप्रवृद्धौ युधि युद्धकोविदौ
शरासिचण्डौ शितशस्त्रधारिणौ ।
अभीक्ष्णमाविव्यधतुर्महाबलौ
महाहवे शम्बरवासवाविव ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.